१५५

तं ह वज्रहस्तोऽभिदुद्रा व ।

स त्वष्टा प्रत्यङ्पतित्वा पत्नीः प्रपेदे ।

तं ह तत्र नानुप्रपेदे ।

तस्मात्त्वष्टारं पत्नीषु संयजन्ति ।

तस्मादु पत्नीः प्रपन्नं न हन्यात् ।

उदेयायेन्द्रः ।

स हविर्धानयोरेव द्रो णकलशे सोमं राजानं सम्पवितुमुपेयाय ।

तं ह द्रो णकलशेनैव प्रतिधाय पीत्वा प्रवव्राज ।

अनूदेयाय त्वष्टा ।

स ह पप्रच्छास्ति किञ्चित्परिशिष्टा३मिति ।

अस्त्ययं संस्राव इति होचुः ।

तं हाग्नौ प्रवर्तयां चकारेन्द्र शत्रुर्वर्धस्व स्वाहेति ।

तं यत्प्रावर्तयत्स एव वृत्रोऽभवत् ।

स वर्तमान एवाग्नीषोमावभिसम्बभूव ।

तस्मादाहुरग्नीषोमावसुर्याविति ।

स ह स्मेषुमात्रमूर्ध्वमुदर्दति ।

ततो ह स्मानावच्छां क्षितिस् ।

स त्रयीं विद्यां सर्वां श्रियं सर्वमन्नाद्यमपि यदिदं त्रिरात्रे सहस्रं प्रोच्यते तदभिसम्बभूव ।

तस्य हेदं सर्वं बलिकृदास ।

कीलालं ह स्मास्मै नद्यो वहन्ति ।

अथ हाभियुग्वानो नामाष्टौ देवानां सहचरा आसुरष्टौ पितॄणामष्टौ मनुष्याणामष्टावसुराणाम् ।

तेषां ह स्मेन्द्रो माययाष्टमो भवति वृत्रं जिघांसन् ।

तस्मादु हैनमिन्द्र एव जघान यदिन्द्र शत्रुर्वर्धस्व स्वाहेति प्रवर्तयां चकार अथ यद्ध प्रावर्तयिष्यदिन्द्र स्य शत्रुर्वर्धस्व स्वाहेति १५५