तस्य ह वज्रेण शीर्षाणि प्रचिच्छेद ।
तान्येव वयांस्यभवन् ।
तद्यत्सोमपानमासीत्स कपिञ्जलोऽभवत् ।
तस्मात्स बभ्रुरिव ।
बभ्रुरिव हि सोमः ।
अथ यत्सुरापानमासीत्स कलविङ्कोऽभवत् ।
तस्मात्स मत्त इवावक्रन्दति ।
अथ यदन्नादनमासीत्स तित्तिरिरभवत् ।
तस्मात्स बहुरूप इव ।
बहुरूपमिव ह्यन्नम् ।
तस्मादु तस्य वृश्चिकश्शङ्कुलिष्ठ इत्येतदन्नम् ।
स त्वष्टा हतपुत्रोऽपेन्द्रं सोममाजह्रे ।
स इन्द्र ईक्षां चक्रेऽस्माच्चेद्वै मा यज्ञादन्तरेत्यन्तरितो वै तथा यज्ञाद्भवानि हन्तैनं हनानीति १५४