१५३

त्रिशीर्षा ह वै त्वाष्ट्र आस ।

तस्य ह त्रीणि मुखान्यासुस्सोमपानमेकं सुरापानमेकमन्नादनमेकम् ।

प्रस्तौति ह स्मैकेनैकेन गायति प्रतिहरत्येकेनाश्रावयत्येकेन प्रत्याश्रावयत्येकेन शंसत्येकेन ।

स ह स्मैकाक्येवानुपरिसर्पं सर्वं यज्ञं संस्थापयति ।

स हेयद्वीर्यावानास ।

स उ हासुरीपुत्र आस ।

स ह स्म प्रत्यक्षं देवेभ्यो वदति परोक्षमसुरेभ्यः ।

यस्मा उ ह वा भूयः कामयते तस्मै परोक्षं वदति ।

तस्मादु हेन्द्रो बिभयां चकार यच्चासुरीपुत्र आस यदु चेयद्वीर्यावानास ।

स हेक्षां चक्रेऽसुर्यो वा अयमासुरीपुत्रः ।

स प्रत्यक्षमस्मभ्यं वदति परोक्षमसुरेभ्यः ।

हन्तैनं हनानीति १५३