१५२

इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतमगच्छत् ।

तं देवा अन्वैच्छन् ।

तं नान्वविन्दन् ।

तेऽब्रुवन्नभिषुणवामैव ।

तत आगमिष्यतीति ।

तेऽभ्यषुण्वन् ।

तेषां ह सर्वमेव प्रातस्सवनं नाजगाम ।

ते ह स्म चमसानुरस्युपनिग्राहमभ्युन्नयन्ते नेदपेन्द्र स्य सोमस्य भक्षयामेति ।

स उ ह माध्यन्दिने सवन आजगाम ।

ते होत्क्रोदं चक्रिरे यथा श्रेष्ठिन्यागत उत्क्रोदं कुर्वते तथा ।

तदु वा आहुरच्छावाकस्येद्वाव स्तोत्रे प्रातस्सवन आजगाम ।

अन्तरितो वै तथा यज्ञादभविष्यद्यदच्छावाकस्य स्तोत्रे प्रातस्सवने नागमिष्यदिति ।

तस्मादेतस्य यज्ञस्याच्छावाकस्य स्तोत्रे भक्षयन्ति ।

तस्माद्वच्छावाकायोभावध्वर्यू प्रत्यागृह्णीतः सर्वे चमसाध्वर्यवः ।

उत्क्रोदमेव तत्कुर्वते ।

तद्यस्माच्छ्रीरपक्रामेत्स एतेन यजेत ।

श्रीर्वै तेषां सापाक्रामद्यदेषां श्रेष्ठ्यपाक्रामत् ।

तामेतेनैवान्वविन्दन् ।

अनु ह श्रियं विन्दति नास्मात्सा श्रीरपक्रामति य एवं वेद १५२