१५१

अथैष तीव्रसोमः ।

प्रजाकामो हैतेन यजेत ।

तनुरिव ह वा एष योऽप्रजः ।

प्रजयो ह वै पुरुषस्तीव्रो बहुलः ।

प्रजया तीव्रो बहुलोऽसानीति ।

अथो आहुः पशुकाम एवैनेन यजेतेति ।

तनुरिव ह वा एष योऽपशुः ।

पशुभिर्ह वै पुरुषस्तीव्रो बहुलः ।

पशुभिस्तीव्रो बहुलोऽसानीति ।

स सप्तदशो भवति ।

एष ह वै तीव्रो बहुलो यत्सप्तदशः ।

प्रजया पशुभिस्तीव्रो बहुलोऽसानीति ।

तस्योभे बृहद्र थन्तरे सामनी भवतः ।

एते ह वै तीव्रे बहुले यदुभे बृहद्र थन्तरे ।

प्रजया पशुभिस्तीव्रो बहुलोऽसानीति ।

तस्य वडवा गर्भिणी दक्षिणा भवति ।

एषा ह वै तीव्रा बहुला यद्वडवा ।

तीव्रा तेन बहुला यद्गर्भिणी ।

तीव्रा तेन बहुला यदुभयतोदती ।

तीव्रा तेन बहुला यदेका सती बह्वीर्गा अर्हति ।

प्रजया पशुभिस्तीव्रो बहुलोऽसानीति ।

अथो आहुर्धेनुशतमेवास्य नानावत्सं दक्षिणा स्यादिति ।

एतद्ध वै तीव्रं बहुलं यद्धेनुशतम् ।

तीव्रं तेन बहुलं यच्छतम् ।

तीव्रं तेन बहुलं यदस्य पयः ।

तीव्रं तेन बहुलं यदस्य वत्साः ।

प्रजया पशुभिस्तीव्रो बहुलोऽसानीति १५१