द्वया उ ह वा अग्रे प्राजापत्या आसुर्देवाश्चैवासुराश्च ।
ततो हाभिराधयत्तरा इव देवा आसुरनभिराधयत्तरा इवासुराः ।
स प्रजापतिरकामयत देवा एव स्युः परासुरा भवेयुरिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
तस्मिन्देवानुपाह्वयत ।
अथासुरान्दीर्घवंशेनान्तरगृह्णात् ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
स यो भ्रातृव्यवान्स्याद्योऽभिचरेद्य स्पर्धेत स एतेन यजेत ।
तद्येऽस्य प्रतिकामीना इवर्त्विज स्युस्तानुपह्वयेत ।
अथेतरान्दीर्घवंशेनान्तर्गृह्णीयात् ।
तेषामेवानुपहवमनु द्विषन्नस्य भ्रातृव्यः पराभवति श्रियमात्मनाश्नुते १५०