१४९

तस्य रथन्तरं पृष्ठं भवति ।

अन्नं वै रथन्तरम् ।

अथो हास्मिन्बह्वेव पक्वान्नं दद्यात् ।

ता एनमन्नकाशिनीः प्रजा अभ्युपावर्तन्ते ।

प्रजापतिर्यज्ञमसृजत ।

तं देवेभ्यः प्रायच्छत् ।

स यज्ञं प्रदाय रिरिचानोऽमन्यत ।

स षक्षत कथं न्वहमिमं यज्ञं पुनरुपह्वयेयेति ।

स एतेनैव यज्ञेनायजत ।

तेनैनं पुनरुपाह्वयत ।

यदुपाह्वयत तद्वेवोपहव्यस्योपहव्यत्वम् ।

तद्यं सकृदिष्टिनं यज्ञो नोपनमेत्स एतेन यजेत ।

अपक्रान्तो ह वा एतस्माद्यज्ञो भवति ।

यं सकृदिष्टिनं यज्ञो नोपनमत्येतेन हैवैनं पुनरुपह्वयते ।

उप हैनं यज्ञो नमति य एवं वेद १४९