अथैष उपहव्यः ।
प्रजापतिः प्रजा असृजत ।
तासां सृष्टानां नावेन्नो एव प्रजा अविदुः प्रजापतिर्नोऽसृष्टेति ।
स षक्षत कथं न्विमा अहं प्रजास्सृजेय तासां सृष्टानां न विद्यामिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततोऽनेनैव ता उपाह्वयत ।
यदुपाह्वयत तदुपहव्यस्योपहव्यत्वम् ।
स सप्तदशोऽनिरुक्तासु भवति ।
यथा ह वै वनाकक्षा एवं सप्तदशोऽनिरुक्तासु ।
स यथा वनाकक्षान्परीत्याविर्भवेदेवमेवैताभिर्दृष्टवतीभिराविर्बभूव ।
यददर्षि गातुवित्तम इत्येतासु दृष्टवतीष्वग्निष्टोमसाम भवति ।
ततो वै तं ता अविदुरस्य वै वयं स्मोऽयं वा अस्माकमासेति ।
अथो हाभ्योऽन्नमेव भूतो ददृशे ।
ता एनमन्नकाशिनीः प्रजा अभ्युपाववृतुः ।
तद्यस्माद्रा जन्याद्विशोऽपक्रामेयुर्ब्राह्मणाद्वा सजातास्स एतेन यजेत ।
तस्मिन्नृत्विज उपह्वयेत ।
एता उ ह वै यजमानस्य विशो यदृत्विजः १४८