अथो आहुस्सप्तदश एव स्यादिति प्रजापतिर्वै सप्तदशः ।
प्रजापतिः प्रजननं स यः प्रजननं स मा प्रजनयादिति ।
अथो आहुस्त्रिणव एव स्यादिति ।
त्रयो ह ते त्रिवृतः ।
न्यानं वै त्रिवृत् ।
न्यूनं प्रजननम् ।
तद्यत्प्रजननं तन्मा प्रजनयादिति ।
अथो आहुस्त्रयस्त्रिंश एव स्यादिति ।
प्रजापतिर्वै त्रयस्त्रिंशः ।
प्रजापतिः प्रजननम् ।
स यः प्रजननं स मा प्रजनयादिति ।
तदु वा आहुस्सप्तदश एव स्यात् ।
एष ह वाव प्रजापतिर्यत्सप्तदशः ।
तस्मात्सप्तदश एव स्यादिति ।
स उ एव त्रिवृतं च स्तोमं गायत्रीं च छन्दोऽभिसम्पद्यते ।
एतद्वै दैव्यं मिथुनं प्रजननं यत्त्रिवृच्च स्तोमो गायत्री च छन्दः ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
स उक्थ्यो भवति विड्वा उक्थानि वैश्वदेवीनामेव प्रजानां प्रजात्यै ।
स हैष भूरेव नाम यज्ञक्रतुः ।
एतेन ह वै यज्ञेनेष्ट्वा प्रजापतिरभवत् ।
यदभवत्तस्माद्भूः ।
भवति य एवं वेद ।
स वा एष वैश्यस्येव यज्ञो ब्राह्मणस्याग्निष्टुद्रा जन्यस्येन्द्र स्तोमः ।
यर्हि वा एतैरेवं व्याकृतैरीजिरे प्रोक्ता ह स्म मनुष्या विज्ञायन्ते ।
ब्राह्मणो वदति राजन्यो वदति वैश्यो वदतीति ।
अथ यदिदमेतर्हि यथोपवादमेतैर्यजन्ते ततो ह नाप्रोक्ता विज्ञायन्ते १४७