१४६

अथैष वैश्वदेवः ।

प्रजननकामो हैतेन यजेत ।

प्रजापतिर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेय वैश्वदेवीः प्रजास्सृजेयेति ।

स एतं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै स बहुः प्रजया पशुभिः प्राजायत वैश्वदेवीः प्रजा असृजत ।

स यत्कामयेत बहुः प्रजया पशुभिः प्रजायेय वैश्वदेवीः प्रजास्सृजेयेति स एतेन यजेत ।

बहुरेव प्रजया पशुभिः प्रजायते वैश्वदेवीः प्रजास्सृजते ।

तद्यदेष वैश्वदेवो भवति वैश्वदेवीनामेव प्रजानां सृष्ट्यै ।

स सर्व एव वैश्वदेवीषु भवति वैश्वदेवीनामेव प्रजानां प्रजात्यै ।

स त्रिवृद्भवति न्यूनं वै त्रिवृत् ।

न्यूनं प्रजननं तद्यत्प्रजननं तन्मा प्रजनयादिति ।

तस्य रथन्तरं पृष्ठं भवति प्रजननं वै रथन्तरं तद्यत्प्रजननं तन्मा प्रजनयादिति ।

स उक्थ्यो भवति प्रजा वै पशव उक्थानि ।

प्रजा वै पशवः प्रजननं तद्यत्प्रजननं तन्मा प्रजनयादिति १४६