१४५

अथैतानि गोनामानि भवन्ति पशवो वै गोनामानि पशूनामेवावरुद्ध्यै ।

एकपदा प्रथमा भवति त्रिपदे उत्तरे द्वे ।

तानि सप्तपदानि सम्पद्यन्ते ।

सप्तपदा वै शक्वर्यः ।

शाक्वराः पशवः ।

अभिपूर्वाणामेव पशूनामवरुद्ध्यै ।

तदाहुरपावमान्यो न पवमाने कार्या इति ।

तदु वा आहुः पावमान्य एवामुष्य वा एताश्चन्द्र मस ऋचः ।

एष वै पवमान एष सोमो राजा ।

तस्मात्कार्या एवेति ।

सुमन्मा वस्वी रन्ती सूनरी सुरूप वृषन्ना गहि

इमौ भद्रौ धुर्यावभि ताविमा उपसर्पतः

नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति

शृङ्गेभिर्दशभिर्दिशन्

इति ये ह वा एत आदित्यस्य रश्मय एतानि ह वा एतस्य शृङ्गाणि ।

मध्य उ ह वा एष एतदपाम् ।

तासु वारवतीयम् ।

यदनेन कर्मणावारुत्स्महि तन्नो वारवन्तीयेन वारितमन्तत उपतिष्ठाता इति ।

तदु वा आहुर्यद्वावान्या वाङ्नातिवदति तदेतस्याह्नोऽग्निष्टोमसाम कार्यम् ।

यज्ञायज्ञीयं वावान्या वाङ्नातिवदति ।

वाग्वै यज्ञायज्ञीयम् ।

कुतो हि वाग्वाचमतिवदिष्यति ।

तस्मादेतस्याह्नो यज्ञायज्ञीयमेवाग्निष्टोमसाम कार्यमिति १४५