ताः पदब्राह्मणा भवन्ति ।
तदिदास भुवनेषु ज्येष्ठमिति प्रजापतिर्हि सः ।
प्रजापतिर्ह्येष भुवनेषु ज्येष्ठः ।
यतो जज्ञ उग्रस्त्वेषनृम्ण इति इन्द्रो ह सः ।
सद्यो जज्ञानो नि रिणाति शत्रूनिति सद्यो ह्येव स जज्ञानस्सर्वा मृधो व्यहत ।
अनु यं विश्वे मदन्त्यूमा इत्यृतवो वा ऊमास्त एवैनं तदनुमदन्ति ।
वावृधानश्शवसा भूर्योजाश्शत्रुर्दासाय भियसं दधातीन्द्रो ह सः ।
अव्यनश्च व्यनश्च सस्नि सं ते नवन्त प्रभृता मदेष्विति यच्च ह वै व्यनिति यच्च न तत्सर्वमेतस्यैव श्रियै तत्स्थानम् ।
त्वे क्रतुं वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमा इति ऋतवो वा ऊमास्त एवैते द्विस्त्रिर्भवन्ति ।
स्वादो स्वादीय स्वादुना सृजा समिति प्रजा वै स्वादुः प्रजायै या प्रजा सा स्वादो स्वादु ।
अदः सु मधु मधुनाभि योधीरिति प्रजा वै मधु प्रजायै या प्रजा सा मधोर्मधु ।
अपि ह प्रजायै प्रजां पश्यते य एवं वेद ।
तासु श्यैतमुक्तब्राह्मणम् १४४