तासु व्यतिषक्तासु स्तुवन्ति व्यतिषक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते प्रजात्या एव ।
अथो व्यतिषक्तो वै पुरुषः पाप्मभिः ।
व्यतिषक्ताभिरेव तद्व्यतिषक्तान्पाप्मनोऽपहते ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथामहीयवमुक्तब्राह्मणम् ।
अथ सौपर्णमुक्तब्राह्मणम् ।
अथ सत्रासाहीयं विजित्यै ।
सत्रा तमभिषहातै योऽस्याभिषह्योऽसदिति ।
अथोत्सेधनिषेधौ पापवस्यसस्यैवोत्सिद्ध्यै च निषिद्ध्यै च ।
अथ विशोविशीयं च सदोविशीयं च ।
विशोविशीयेन वा इन्द्रो देवानभ्यारोहत् ।
तान्सदोविशमित्येव सदोविशीयेन विशमकुरुत ।
अथैतास्त्रिष्टुभो भवन्ति ।
तासु ब्रह्मसाम ।
ब्रह्म वै ब्रह्मसाम ।
क्षत्रं त्रिष्टुप् ।
यजमानकामो वा एष यद्ब्रह्मसाम ।
स्व एव तदायतने यजमानं कामैस्समर्धयन्ति १४३