तं विजिग्यानं सर्वे देवा अभितस्समन्तं पर्यविशन्वसवः पुरस्ताद्रुद्रा दक्षिणत आदित्याः पश्चान्मरुत उत्तरतो विश्वे देवा उपरिष्टात्साध्याश्चाप्त्याश्चाह्दस्तादभितोऽङ्गिरसः ।
एषा वै दैवी श्रीर्दैवा सभा दैवी संसत् ।
गच्छति ह वा एतां दैवीं श्रियं दैवींसभां दैवीं संसदं य एवं वेद ।
स वा एष षड्बृहतीरभिसम्पद्यते ।
षड्वा ऋतवस्संवत्सरश्रीः ।
श्रियां वावैनं तदध्यौहत् ।
स एष ऋतुषु च संवत्सरे चैतस्यां श्रियामध्यूढस्तपति ।
तस्य प्रत्नं पीयूषं पूर्वं यदुक्थ्यमित्येताः सतोबृहतयो भवन्ति गायत्रीभाजनम् ।
ब्रह्म वै गायत्री ।
क्षत्रं बृहती ।
ब्रह्मैव तद्यशसानक्ति ।
ब्रह्मणोऽस्य तत्सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद १४२