१४१

अथैष विघनः ।

प्रजापतिर्देवानसृजत वसून्रुद्रा नादित्यान् ।

तेभ्यो यज्ञं चेमांश्च लोकान्प्रायच्छत् ।

वसुभ्य एव प्रातस्सवनं प्रायच्छद्रुद्रे भ्यो माध्यन्दिनं सवनमादित्येभ्यस्तृतीयसवनम् ।

वसुभ्य एवेमं लोकं प्रायच्छद्रुद्रे भ्योऽन्तरिक्षमादित्येभ्योऽमुम् ।

अथेन्द्र मसृजत ।

स इदमेषां सर्वम्विभक्तमपश्यत् ।

सोऽब्रवीद्यदिदमेषां सर्वं विभक्तमथ कस्मै मामसृष्ठा इति ।

एतेषां त्वा इत्यब्रवीच्छ्रैष्ठ्यायाधिपत्यायासृक्षीति ।

सोऽहं कथमेषां श्रेष्ठोऽधिपति स्यामिति ।

परेह्येनान्ब्रूहीत्यब्रवीद्युष्माकं मा प्रजापति श्रैष्ठ्यायाधिपत्यायासृष्टेति ।

स एत्याब्रवीद्युष्माकं मा प्रजापति श्रैष्ठ्यायाधिपत्यायासृष्टेति ।

तेऽब्रुवन्वयं वाव श्रेष्ठा स्मो वयमधिपतयो ये ज्येष्ठा स्म इति नाजानन् ।

स पुनरेत्याब्रवीन्न वा अमी तज्जानन्ति यत्त्वमात्थेति ।

स एतं यज्ञमपश्यत् ।

तमाहरत् ।

तेनैनमयाजयत् ।

स हेष्ट्वैव सर्वा मृधो व्यहत ।

यद्व्यहत तद्विघनस्य विघनत्वम् ।

वि ह वै द्विषन्तं भ्रातृव्यं हते य एवं वेद १४१