१४०

स षन्द्री ष्वेव सर्वो भवति ।

षन्द्री ष्वेव प्रातस्सवनं भवत्यैन्द्री षु माध्यन्दिअनं सवनमैन्द्री षु तृतीयसवनम् ।

तद्यद्गायत्रं सत्प्रातस्सवनमैन्द्री षु क्रियते वसूनामेव तेन यज्ञं समवृङ्क्त ।

अथ यत्त्रैष्टुभं सन्माध्यन्दिनं सवनमैन्द्री षु क्रियते रुद्रा णामेव तेन यज्ञं समवृङ्क्त ।

अथ यज्जागतं सत्तृतीयसवनमैन्द्री षु क्रियत आदित्यानामेव तेन यज्ञं समवृङ्क्त विश्वेषां च देवानाम् ।

त एनमात्तयज्ञा उपासीदन्विशस्तेऽसाम यज्ञे नोऽन्वाभजेति यथा भर्तारं भार्या उपसीदन्ति तथा ।

स वसूनेव प्रातस्सवनेऽन्वाभजद्रुद्रा न्माध्यन्दिने सवन आदित्यांस्तृतीयसवने विश्वांश्च देवान् ।

यथा राजा विजित्य स्वे वित्ते भार्यानन्वाभजेदेवमेवैनांस्तदन्वाभजत् ।

तस्मादिन्द्रा य वसुमते रुद्र वत आदित्यवते विश्वदेव्यावत इत्यन्वाहुस् ।

स पञ्चदशो भवति ।

वज्रो वै पञ्चदशः ।

वज्र इन्द्रः ।

षन्द्र एष यज्ञस्तत्तत्सलक्ष्म क्रियते ।

स उक्थ्यो भवति ।

विड्वा उक्थानि ।

क्षत्रमेव तद्विश्यध्यूहन्ति ।

तस्मात्क्षत्रियो विश्यध्यूढः ।

सय श्रीकाम स्यात्स एतेन यजेत ।

क्षत्रं श्रीः क्षत्रयज्ञ एषोऽश्नुते श्रियम् १४०