अथैष इन्द्र स्तोमः ।
इन्द्रो वा अकामयत सर्वेषां देवानां श्रेष्ठतां गच्छेयमिति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै स सर्वेषां देवानां श्रेष्ठतामगच्छत् ।
गच्छति स्वानां श्रेष्ठतां य एवं वेद ।
इन्द्रे ह वा अग्रे यज्ञ आस ।
श्रीर्ह वा अस्मिंस्तदास ।
यज्ञ उ ह वाव देवानां श्रीः ।
तमु ह वृत्रोऽभिववृधे ।
स देवानुपाधावद्युष्माभिर्बलेनेमं वृत्रं हनानीति ।
तमब्रुवन्स वै नो यस्तेऽयं निष्केवल्यो यज्ञस्तं प्रयच्छेति ।
तस्माद्रा जनि विजिगीषमाणे विषः प्रदानमिच्छन्ते ।
तस्मादु राजा विजिगीषमाणो विश एव प्रदानं प्रयच्छति ।
स वसुभ्य एव प्रातस्सवनं प्रायच्छद्रुद्रे भ्यो माध्यन्दिनं सवनमादित्येभ्यस्तृतीयसवनं विश्वेभ्यश्च देवेभ्यः ।
तैर्बलेनेन्द्रो वृत्रमहन् ।
अजयन्देवा असुरान् ।
स वृत्रं हत्वा विजित्य पृथगेवैषां इमा श्रियो दीप्यमाना अपश्यत् ।
तमभिशस्तिरविन्दन् ।
स षक्षत कथं न्वहमेषामिमा श्रियस्संवृञ्जीयेति ।
स एतेनैव यज्ञेनायजत ।
तेनैषां सर्वा श्रियस्समवृङ्क्त ।
वृङ्क्ते द्विषतो भ्रातृव्यस्य श्रियं य एवं वेद १३९