तद्यथाग्निदग्धमद्भिरभिषिञ्चेत्तादृगेव तच्छान्त्यै ।
तदाहुर्यो वा अग्निदग्धमद्भिरभिषिञ्चति भूयो वैतत्प्रमृच्यति किलासं सं वा भवति ।
आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिरित्येतास्वेव वायुमतीषु कार्यं वायुर्वै शान्तिश्शान्त्या एवानिर्दाहायेति ।
तदाहुर्यो वा आग्नीनुपदीप्य वातेनोपवाजयति भूयो वै तद्दीप्यते ।
दीप्तिर्वावैषेति ।
तदु वा आहुस्तद्वाव यजमान इच्छेद्यत्स दीप्येत ।
यदु दीप्त्यै वायुरेव दीप्त्यै ।
यदु शान्त्यै वायुरेव शान्त्यै ।
तस्मादेतास्वेव वायुमतीषु कार्यमिति ।
तस्याजा च हिरण्यं च दक्षिणा ।
आग्नेयी वा अजाग्नेयं हिरण्यम् ।
अथो आहुरनड्वान्दक्षिणेति ।
वहति वा अनड्वान्वहत्यग्निर्देवेभ्यो हविः ।
स्तोममेव तद्रू पेण समर्धयन्ति १३८