१३७

तद्यथा जरत्कक्षमग्निनोपदीप्य तमद्भिरुपसिञ्चेत्तस्मिन्कल्याण्य ओषधयो जायेरंस्तासु पशवो रमेरन्नेवं हैवास्मिन्सर्वे पशवो रमन्ते ।

तस्याग्न आयूंषि पवस इत्येषाग्निपावमानी प्रतिपद्भवति ।

तदाहुर्वीव वा एतैः प्राणैरृध्यन्ते ये पावमानीभिः प्रतिपद्यन्त इति ।

तद्यदेषाग्निपावमानी प्रतिपद्भवतीति प्राणो वै वायुः प्राणैरेव तत्समृध्यन्ते ।

अग्ने पावक रोचिषेत्यन्नं वै पावकमन्नाद्येनैवैनं तत्समर्धयन्ति ।

अथो वायुर्वै पावकः प्राणो वै वायुरभिपूर्वमेवैनं तत्प्राणैस्समर्धयन्ति ।

अग्निश्शुचिव्रततम इत्यशुचिरिव वा एष भवति योऽभ्याख्यायते ।

शुचिमेवैनमेतेन पूतं मेध्यं कुर्वन्ति ।

तस्य यज्ञायज्ञा वोऽग्नय इत्येता माध्यन्दिनस्य पवमानस्य बृहत्यो भवन्ति ।

अग्ना उ वा एतं प्रास्यन्ति यमग्निष्टुता याजयन्ति ।

उत त्राता तनूनामित्यग्नय एव तद्वैश्वानराय यजमानस्तन्वं परिदत्ते ।

तस्य पाहि नो अग्न एकयेत्येतासु नार्मेधस्यर्क्षु रथन्तरं पृष्ठं भवति ।

एताभिर्वै नृमेधा औशिजोऽग्नेर्हरांस्यपैरयत ।

अग्नेरेवैताभिर्हरांस्यपेरयते ।

तस्य शं नो देवीरभिष्टय इत्येतास्वपोनप्त्रियास्वग्निष्टोमसाम भवति ।

आपो वा अपोनप्त्रियः ।

अग्ना उ वा एतं प्रास्यन्ति यमग्निष्टुता याजयन्ति १३७