त्रिवृता तेजस्कामो ब्रह्मवर्चसकामोऽग्निष्टुता यजेत पञ्चदशेन वीर्यकामस्सप्तदशेन पशुकामः प्रजननकाम एकविंशेन प्रतिष्ठाकामस्त्रिणवेनौजस्कामस्त्रयस्त्रिंशेन श्रीकामः ।
तदु वा आहुर्वदनमेवैतत्सर्वं य एवायं चतुष्टोमोऽग्निष्टोमः ।
तेनैव यजेतेति ।
अयं वै त्रिवृदयं पञ्चदशोऽयं सप्तदशोऽयमेकविंशः ।
इमान्वै प्राणानग्निरन्वायत्तः ।
स योऽनूचानस्सन्न विरोचेत स एतेन यजेतेति ।
यथा ह वै निष्कश्शमलगृहीत एवं स योऽनूचानस्सन्न विरोचते ।
अग्ना उ वा एतं प्रास्यन्ति यमग्निष्टुता याजयन्ति ।
तद्यथा निष्कं शमलगृहीतमग्नौ प्रास्य तस्यायोघनेन सर्वं शमलं निर्हन्यादेवं हैवास्य सर्वं पाप्मानं निर्घ्नन्ति ।
सोऽपहतपाप्मा तेजस्वी ब्रह्मवर्चसी भवति ।
अथो आहुर्यस्मिन्नेव पशव्ये सति पशवो न रमेरन्स एनेन यजेतेति ।
यथा ह वै जरत्कष एवं स यस्मिन्पशव्ये सति पशवो न रमन्ते ।
तस्य रेवतीष्वग्निष्टोमसाम भवति ।
आपो वै रेवतयः ।
अग्ना उ वा एतं प्रास्यन्ति यमग्निष्टुता याजयन्ति १३६