स यो मुखेन पापं कृत्वा मन्येत त्रिवृताग्निष्टुता यजेत ।
एष ह वै मुखेन पापं करोति योऽवाद्यं वदति ।
मुखं वै त्रिवृत्स्तोमानाम् ।
मुखादेव तेन पाप्मानमपघ्नते ।
अथ यो बाहुभ्यां पापं कृत्वा मन्येत पञ्चदशेनाग्निष्टुता यजेत ।
एष ह वै बाहुभ्यां पापं करोति योऽनिघात्यस्य निहन्ति ।
बाहू वै पञ्चदश स्तोमानाम् ।
बाहुभ्यामेव तेन पाप्मानमपघ्नते ।
अथ उदरेण पापं कृत्वा मन्येत सप्तदशेनाग्निष्टुतायजेत ।
एष ह वा उदरेण पापं करोति योऽनाश्यान्नस्यान्नमत्ति ।
उदरं वै सप्तदश स्तोमानाम् ।
उदरादेव तेन पाप्मानमपघ्नते ।
अथ यः पद्भ्याम्पापं कृत्वा मन्येत एकविंशेनाग्निष्टुता यजेत ।
एष ह वै पद्भ्यां पापं करोति यो जनमेति ।
प्रतिष्ठा वा एकविंश स्तोमानाम् ।
पद्भ्यामेव तेन पाप्मानमपघ्नते ।
अथो आहुर्य एवायं ज्योतिष्टोमोऽग्निष्टोमस्तेनैव यजेतेति ।
तस्य यत्त्रिवृद्बहिष्पवमानं भवति मुखादेव तेन पाप्मानमपघ्नते ।
अथ यत्पञ्चदशान्याज्यानि भवन्ति पञ्चदशो माध्यन्दिनो बाहुभ्यां एव तेन पाप्मानमपघ्नते ।
अथ यत्सप्तदशानि पृष्ठानि भवन्ति सप्तदश आर्भव उदरादेव तेन पाप्मानमपघ्नते ।
अथ यदेकविंशमग्निष्टोमसाम भवति पद्भ्यामेव तेन पाप्मानमपघ्नते १३५