१३४

अथैषोऽग्निष्टुत् ।

इन्द्रं वै भूतानि पर्यचक्षत त्रिशीर्षाणं त्वाष्ट्रमवधीद्यतीन्सालावृकेभ्यः प्रादादरुर्मुखानवधीद्बृहस्पतेः प्रत्यवधीत्सन्धां संहितं अतीत्य नमुचेरासुरस्य शिरः प्राच्छैत्सीदित्येतेभ्यो देवकिल्बिषेभ्यस् ।

स हारण्य एव चचारानभ्यवयन्देवान् ।

स उ ह देवानुवाच याजयत मेति ।

नेति होचुः ।

एता वै त्वया सन्धा अतीता एतानि देवकिल्बिषाणि कृतानि न त्वा याजयिष्याम इति ।

अथो हास्याग्निरेव सखितम इवास देवेषु ।

स उ हाग्निमुवाच त्वं मा यजयेति ।

तथेति होवाच ।

स वै नु तं देवेष्विच्छामि येन त्वा सह याजयेयमिति ।

स ह तं देवेषु न विवेद येनैनं सहायाजयिष्यत् ।

स होवाच न वै नु तं देवेषु विन्दामि येन त्वा सह याजयेयमिति ।

तं वै मा त्वमेव याजयेति ।

तथेति ।

सोऽग्निरात्मन एवाध्येतमग्निष्टुतमतनुत ।

तेनैनमयाजयत् ।

तस्य सद्यस्सर्वं पाप्मानं निरदहत् ।

स यथाहिरहिच्छव्यै निर्मुच्येत यथा मुञ्जादिषीकां विवृहेदेवमेव सर्वस्मात्पाप्मनो निरमुच्यत ।

स एषोऽपहतपाप्मा तपत्येष ह वा इन्द्रः ।

स य उक्तोक्त स्याद्योऽभ्याख्यायेत स एतेन यजेत ।

सद्यो हैवास्य सर्वं पाप्मानं निर्दहति ।

स यथाहिरहिच्छव्यै निर्मुच्येत यथा मुञ्जादिषीकां विवृहेदेवमेव सर्वस्मात्पाप्मनो निर्मुच्यते १३४