१३३

\तस्मादिन्द्रा ग्न्योः कुलायः ।

तदाहुस्सत्रे तद्व्यतिषक्तं यत्त्रिवृत्पञ्चदशम् ।

त्रिवृत्पञ्चदशमित्येवैतानि स्तोत्राणि व्यतिषक्तानि भवन्ति ।

षडेव त्रिवृन्ति स्तोत्राणि स्युः षट्पञ्चदशानीति ।

यान्येवार्वाञ्चि माध्यन्दिनात्तान्येव त्रिवृन्ति स्युर्यान्यूर्ध्वं तानि पञ्चदशानीति ।

पञ्चदशस्त्वेव माध्यन्दिनः स्यात्त्रिवृद्धोतुः पृष्ठम् ।

तस्मिन्पञ्चदशे माध्यम्दिने रथन्तरमवकल्पयन्ति ।

ब्रह्म वै रथन्तरं क्षत्रं पञ्चदशः ।

ब्रह्मैव तत्क्षत्रे प्रतिष्ठापयन्ति ।

अथ यत्त्रिवृद्धोतुः पृष्ठं भवति ब्रह्म वै त्रिवृत्क्षत्रं बृहत्क्षत्रमेव तद्ब्रह्मन्प्रतिष्ठापयन्ति ।

तावेतावेवमन्योऽन्यस्मिन्प्रतिष्ठाय श्रेष्ठतामगच्छताम् ।

तयोर्हैतयोरजय्यमेव ।

अजय्यां ह वै कीर्तिमजय्यां श्रियमजय्यं स्वर्गं लोकं जयति य एवं वेद ।

यद्वेवैते त्रिवृत्पञ्चदशे स्तोत्रे व्यतिषक्ते भवतो व्यतिषक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते प्रजात्या एव ।

अथो प्राणा वै स्तोमा व्यतिषक्ता वा इमे प्राणा अनिर्मार्गाय ।

तस्मात्त्रिवृत्पञ्चदशान्येवैतानि स्तोत्राणि व्यतिषक्तानि स्युरिति ।

तस्यैन्द्रा ग्नं सामादिष्टसाम माध्यन्दिने पवमाने भवति ।

इन्द्रा ग्न्योर्ह्येष यज्ञः ।

स्तोममेव तद्रू पेण समर्धयन्ति १३३