अथैष इन्द्रा ग्न्योः कुलायः ।
इन्द्रा ग्नी वा अकामयेतां सदृशानामेव सतां देवानां श्रेष्ठतां गच्छेव समानेन यज्ञेन समानीमृद्धिमृध्नुयावेति ।
तावेतं यज्ञमप्श्यताम् ।
तमाहरताम् ।
तेनायजेताम् ।
ततो वै तौ सदृशानामेव सतां देवानां श्रेष्ठतामगच्छतां समानेन यज्ञेन समानीमृद्धिमार्ध्नुताम् ।
तद्ब्रह्म वा अग्निः ।
क्षत्रमिन्द्रः ।
स वा एष त्रिवृत्पञ्चदशो भवति ।
ब्रह्म वै त्रिवृत् ।
क्षत्रं पञ्चदशः ।
त्रिवृतैवाग्नि श्रेष्ठतामगच्छत्पञ्चदशेनेन्द्रः ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
ब्रह्म वै रथन्तरं क्षत्रं बृहत् ।
रथन्तरेणैवाग्नि श्रेष्ठतामगच्छद्बृहतेन्द्रः ।
तौ यौ ब्राह्मणश्च राजन्यश्च कामयेयातां सदृशानामेव सतां स्वानां श्रेष्ठतां गच्छेव समानेन यज्ञेन समानीमृद्धिमृध्नुयावेति तावेतेन यजेयाताम् ।
सदृशानामेव सतां स्वानां श्रेष्ठतां गच्छतस्समानेन यज्ञेन समानीमृद्धिमृध्नुतः ।
त्रिवृतैव ब्राह्मण श्रेष्ठतां गच्छति पञ्चदशेन राजन्यः ।
रथन्तरेणैव ब्राह्मण श्रेष्ठतां गच्छति बृहता राजन्यः तद्यदेतानि त्रिवृत्पञ्चदशस्तोत्राणि व्यतिषक्तानि भवन्ति १३२