१३१

तस्याष्टशतं स्तोत्रिया भवन्ति ।

ततो यच्छतं सा विराट् ।

क्षत्रं विराट् ।

अथ या अष्टौ सा गायत्री ।

तेजो ब्रह्मवर्चसं गायत्री ।

तेज एव तद्ब्रह्मवर्चसं क्षत्रस्य पुरस्ताद्दधाति ।

तस्माद्ब्राह्मणः क्षत्रियस्य पुरोहितः ।

स यः पुरोधाकाम स्यात्स एतेन यजेताश्नुते पुरोधाम् ।

तं हैक एकछन्दसमेव कुर्वन्ति गायत्रमेव सर्वं गायत्रो वै बृहस्पतिः ।

ब्रह्म वै गायत्री ।

ब्रह्म बृहस्पतिर्ब्रह्मणा वा ब्रह्मवर्चसमृध्नवामेति ।

ते ये ह ते तथा कुर्वन्त्यग्निं चैव तेन देवतानामुपाप्नुवन्ति गायत्रीं च छन्द इमं च लोकम् ।

अन्तरिता हैषामितराश्च देवता भवन्तीतराणि च छन्दांसीतरे च देवा इतरे च लोका इतरे च कामाः ।

तस्माद्यथाछन्दसमेव कार्यं सर्वासां देवतानां सर्वेषां छन्दसां सर्वेषां देवानां सर्वेषां लोकानां सर्वेषां कामानामुपाप्त्यै ।

तस्य बृहद्बार्हस्पत्यमादिष्टसामार्भवे पवमाने भवति ।

बृहस्पतिसवो ह्येषः ।

स्तोममेव तद्रू पेण समर्धयन्ति १३१