१३०

तदाहुर्मनसैव प्रातस्सवने दद्यान्मनसा तृतीयसवने माध्यन्दिन एव सवने दद्यादिति ।

तदु वा आहुरतीर्थं वै प्रातसवनं दक्षिणानामतीर्थं तृतीयसवनम् ।

माध्यन्दिन एव सवने दद्यात् ।

तदेव तीर्थं तदायतनम् ।

नैवेतरयोः सवनयोर्मनसा चन दददाद्रि येतेति ।

ब्रह्मणेऽश्वं ददाति ।

ब्रह्मणो ह्येवैकदक्षिणा ।

तद्यदा माध्यन्दिनीयाश्चमसाः प्रतिष्ठेरन्नथ जघनेनाहवनीयं प्राचीनग्रीवं कृष्णाजिनमुपस्तृणीतेति ब्रूयादुदीचीनग्रीवं वा ।

तद्यजमान आस्ते स हुतानां चमसानामुन्मार्ष्टि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्यै त्वा वाचो यन्तुर्यन्त्रेण बृहस्पतेस्त्वा साम्राज्येन ब्रह्मणाभिषिञ्चामीति ।

मुखं विमार्ष्टि ।

स सोमाभिषिक्तस्तेजस्वी ब्रह्मवर्चसी भवति ।

त्रिरुत्क्रोशन्ति त्रयो वा इमे लोका एष्वेवास्य तल्लोकेषु श्रुतिं दधति १३०