स त्रिवृद्र थन्तरसामा भवति ।
ब्रह्म वै त्रिवृद्ब्रह्म रथन्तरम् ।
ब्रह्मणा वाव स तद्ब्रह्मवर्चसमार्ध्नोत् ।
ब्रह्मणैव ब्रह्मवर्चसमृध्नोति य एवं वेद ।
तस्य त्रयस्त्रिंशद्दक्षिणा भवन्ति ।
त्रयस्त्रिंशद्वै देवताः ।
देवतानामेव पुरोधामाश्नुत ।
अश्वश्चतुस्त्रिंशः ।
प्रजापतेर्वा एतद्रू पं यदश्वः ।
सप्रजापतिकानामेव तेन देवतानां पुरोधामाश्नुत ।
तस्यैता यथापूर्वमनुसवनं दक्षिणा ददात्यष्टौ प्रातस्सवने ददात्येकादश माध्यन्दिने सवने द्वादश तृतीयसवनेऽनूबन्ध्यायामेकामुदवसानीयायामेकाम् ।
अनुसवनमश्वं तृतीयशः ।
तद्या अष्टौ प्रातस्सवने ददात्यष्टौ वसवो वसूनामेव पुरोधामाश्नुत ।
अथ या एकादश माध्यन्दिने सवनेकादश रुद्रा रुद्रा णामेव तेन पुरोधामाश्नुत ।
अथ या द्वादश तृतीयसवने द्वादशादित्या आदित्यानामेव तेन पुरोधामाश्नुत ।
अथ यामनूबन्ध्यायामेकां मित्रावरुणयोरेव तेन पुरोधामाश्नुत ।
अथ यामुदवसानीयायामेकां कर्म कर्म मे दक्षिणावदसदिति ।
अथ यमनुसवनमश्वं तृतीयशः प्रजापतेरेव तेन पुरोधामाश्नुत १२९