अथैष बृहस्पतिसवः ।
प्रजापतिः प्रजास्ससृजानस्स व्यस्रंसत ।
सोऽन्नं भूतोऽशयत् ।
तस्य सर्वे देवा ममत्विन आसन्मम ममेति ।
तेऽब्रुवन्वीदं भजामहा इति ।
तस्य विभागे न समपादयन् ।
तेऽब्रुवनाजिमस्यायामेति ।
त आजिमायन् ।
स बृहस्पतिराजिसरणं पन्थानमपश्यत् ।
स पूर्वः परीत्य रथेन वृत्वातिष्ठत् ।
ते देवास्तन्नाविन्दन्येनात्यसरिष्यन् ।
शश्वद्ध यावानेव रथयानाय तावानाजिरास ।
ततो वै स तमाजिमुदजयत् ।
यद्बृहस्पतिरुदजयत्तस्माद्बृहस्पतिसवः ।
तमाजिमुज्जिगिवांसमिन्द्रो ऽब्रवीत्पुरस्त्वा दधे ।
मामनेन यज्ञेन याजयेति ।
तथेति ।
तं पुरोऽधत्त ।
तेनैनमयाजयत् ।
ततो वा इन्द्र स्सर्वेषां देवानां श्रैष्ठ्यमगच्छत् ।
गच्छति स्वानां श्रैष्ठ्यं य एवं वेद ।
स वा एष द्वयोरेव यज्ञो ब्राह्मणस्य चैव राजन्यस्य च ।
यद्बृहसोअतिरुदजयत्तेन ब्राह्मणस्य ।
यदिन्द्रो ऽयजत तेनो राजन्यस्य ।
स उ हेन्द्र स्यैवैकस्य पुरोहित आस नेतरेषां देवानाम् ।
सोऽकामयत सर्वेषां देवानां पुरोधां गच्छेयमिति ।
स एतेनैव यज्ञेनायजत ।
ततो वै स सर्वेषां देवानां पुरोधामगच्छत् ।
बृहस्पतिर्वै देवानां पुरोहितः १२८