१२७

शश्वद्धोदरश्शाण्डिल्यस्तेनैव पणाय्यतां जगाम यदस्य मनस्येवासैकत्रिकेण यजेयेति ।

स वा एषोऽन्यतर इव यज्ञक्रतुस्सुपणाय्यो वैनेनेष्ट्वा भवति सुपापीयान्वा ।

तस्यैकस्यां बहिष्पवमानं सम्पद्यते उपास्मै गायता नर इति ।

तिसृषु माध्यन्दिनः पवमानो गायत्रमेव गायत्र्यामुत्सेधस्सतोबृहत्यां सैवेळा तन्निधनमाउशनमेव त्रिष्टुभि ।

एतस्यामार्भवः पवमानोऽया रुचा हरिण्या पुनान इति ।

एतस्यामतिच्छन्दसि गायत्रपार्श्वम् ।

स एव स्वरस्तन्निधनम् ।

सप्तपदा भवति ।

सप्त वै छन्दांसि ।

अतिच्छन्दा वै सर्वाण् छन्दांस्यभिभवति ।

तदस्य तत्सर्वाण्येव छन्दांस्युपेतानि भवन्ति ।

तदाहुः पञ्चनिधनमेव वामदेव्यं कार्यम् ।

पञ्चछन्दा आर्भवः पवमानस्सप्तसामा ।

यदह पञ्चनिधनानि तेन छन्दांसि प्रति विभवति ।

यदु वै सप्तपदा तेन सामान्यत्रेव विभवतीति ।

तदु वा आहुर्गायत्रपार्श्वमेव कार्यम् ।

स एव स्वरस्तन्निधनम् ।

आत्मा वै स्वरः प्रजा निधनम् ।

एतदेव समृद्धतरमिव यद्गायत्रपार्श्वम् ।

तस्माद्गायत्रपार्श्वमेव कार्यमिति ।

ताश्चतुर्विंशति स्तोत्र्यास्सम्पद्यन्ते ।

चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरः प्रजननम् ।

स यः प्रजननं स मा प्रजनयादिति १२७