तेन हैतेनोदरश्शाण्डिल्य इयक्षां चक्रे ।
तस्य ह मनस्येवास एकत्रिकेण यजेयेति ।
न ह तु कस्मै चनोवाच ।
अथ हास्य जाया गन्धर्विण्यास ।
तां हायं गन्धर्व उपन्येयाय ।
तां होवाचैकत्रिक इति वै यज्ञक्रतुर्दारुण इवास्ति ।
तेन वै ते पतिर्यक्ष्यत इति ।
सा हेयं पतिं पप्रच्छैकत्रिक इति वै यज्ञक्रतुर्दारुण इवास्ति ।
सत्यं त्वं तेन यक्ष्यसा३इति ।
स होवाच यदहमिदं नैव कस्मै चनावोचं मनस्येव मेऽभूत्कस्त इदमवोचदिति ।
यो मायं गन्धर्व उपन्यैतीति ।
तं वै त्वं पृच्छतादिति होवाच ।
यष्टव्यं तेना३न यष्टव्या३मिति ।
तं ह पप्रच्छ यष्टव्यं तेना३न यष्टव्या३मिति ।
स होवाच यथा वा एनं स वेदैवमेनं वयं विद्मः ।
यस्त्वस्येत्थं स्तोत्रं विद्यात्स एनेन यजेतेति यथैनेनादः प्रजापतिस्तुष्टुवे ।
तेनो ह स नोपदधर्ष यष्टुम् १२६