ततो वै स खण्डिकं निःसारयां चकार ।
ततो वै केशी दार्भ्योऽभवत्परा खण्डिकः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।
तस्य तिसृषु बहिष्पवमानं भवति चतसृष्वाज्यानि पञ्चसु माध्यन्दिनः पवमानश्चतसृषु पृष्ठानि सप्तस्वार्भवः पवमान एकस्यामग्निष्टोमसाम ।
ताश्चतुर्विंशति स्तोत्र्यास्सम्पद्यन्ते ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरादेव तत्खण्डिकमौद्भारिं केशी दार्भ्यो नुनुदे संवत्सरादन्तरियाय ।
संवत्सरादेव द्विषन्तं भ्रातृव्यं नुदते संवत्सरादन्तरेति य एवं वेद १२४