तमु वै मायं खण्डिकोऽभिप्राहैषीत्सयःक्रिया वै स्यो यक्ष्यत इति ।
स एव नूनं भविष्यति परा स्यो भविष्यतीत्येवैतद्ध्यायामीति ।
तं होचुः परिक्रीरिति वा अयं यज्ञक्रतुरस्ति ।
तेन त्वा याजयामेति ।
तथेति ।
तेन हैनं याजयां चक्रुः ।
तस्य वा एतस्य तृचस्य तृचस्यैकैकया स्तुवन्ति ।
ब्रह्म वै प्रथमा स्तोत्रिया क्षत्रं द्वितीया विट्तृतीया ।
अवलम्ब उ ह वै ब्रह्मणः क्षत्रं च विट्च ।
क्षत्रं चो ह वै विशं चानु भ्रातृव्यलोकः ।
स ये द्वे अवचिच्छेद भ्रातृव्यलोकमेव तदवचिच्छेद ।
आत्मा वै प्रथमा स्तोत्रिया जाया द्वितीया प्रजा तृतीया ।
अवलम्ब उ ह वा आत्मनो जाया च प्रजा च ।
जायां चो ह वै प्रजां चानु भ्रातृव्यलोकः ।
स ये द्वे अवचिच्छेद भ्रातृव्यलोकमेव तदवचिच्छेद १२३