१२२

अथैष परिक्रीः ।

खण्डिकश्च हौद्भारिः केशी च दार्भ्यः पाञ्चालेषु पस्पृधाते ।

स ह खण्डिकः केशिनमभिप्रजिघाय ।

सद्यःक्रिया वै स्यो यक्ष्यत इति ।

अथ हैतेन प्रोच्य भ्रातृव्याय यजन्ते ।

तस्य हैते ब्राह्मणा आसुरहीना आश्वत्थिः केशी सात्यकामिर्गङ्गिना राहक्षितो लुशाकपिः खार्गलिरिति ।

ते हैनमुपसमेयुः ।

स ह ध्यायन्निषसाद ।

तं होचुः किं नु राजन्यो ध्यायतीति ।

स होवाच न हि मे ध्येयम् ।

यूयं ब्राह्मणा अनुब्रूथादित्याश्चाङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त ।

त आदित्याः पूर्वे स्वर्गं लोकमगच्छन्नहीयन्ताङ्गिरस इति ।

स य एतेन प्रोच्य भ्रातृव्याय यजते स एव भवति परास्य द्विषन्भ्रातृव्यो भवति १२२