१२१

गोधूमोर्वरा वेदिर्भवति ।

सा हि पुराकृता भवति ।

गोधूमानामुत्तरवेदिः परोक्षतायै ।

खलेवला यूप स्फ्याग्रो भवत्यैन्द्रः ।

विजित्यै सह पशू आलभन्ते समष्ट्यै ।

स्त्रीगौस्सोमक्रयणी भवति परोक्षतायै ।

कुम्भ्या वसतीवर्यो भवन्ति यः पुरेजानस्तस्य गृहेभ्यः ।

ता हि पुरागृहीता भवन्ति ।

सर्पिष्मन्तमशित्वा निपद्यते ।

यमेवामुं दीक्षणीयमश्नाति स एवास्य सोऽशितो भवति ।

प्रियायै जायाया अन्तरोरू शेतेऽनिपद्यमानः ।

तपस्यमेवास्य तद्धिरण्यं मुख आधाय शेते ।

सत्यं वै हिरण्यम् ।

सत्यमेवास्य तदुदितं भवति ।

रजतं भवति परोक्षतायै ।

वळवा श्वेता दक्षिणा भवति परोक्षतायै ।

अश्वतरीरथस्सोमप्रवाको भवति त्रैपदं परमं परोक्षतायै ।

तस्मिन्दधिदृतिरुपावहितो भवति ।

तस्य यत्सर्पिस्सम्पतति तदाज्यकुम्भेऽवास्यन्ति ।

तद्धि सद्योजमिवाध्यर्धक्रोशेऽध्यर्धक्रोश ऋत्विजो विनिहिता भवन्ति ।

त एनं प्रातरुपसमेत्य याजयन्ति ।

स जुह्वत्त्रिर्निमीलयति त्रिर्वीक्षते ।

ता एव दीक्षोपसदः ।

स वा एषोऽष्टादशपवमानो भवति ।

परोक्षं त्रिवृत् ।

अग्निष्टोमयज्ञा वा आदित्या उक्थ्ययज्ञा अङ्गिरसः ।

स एष उक्थ्यो निदानेन सन्नग्निष्टोमः प्रत्याह्रियते क्षिप्रतायै ।

अथैष चतुर्विंशपवमानो भवति ।

परोक्षं त्रिवृदु एव ।

स वा एषोऽतिरात्रो निदानेन सन्षोडशीमान्वा अग्निष्टोमः प्रत्याह्रियते क्षिप्रतायै १२१