१२०

अथैतावनुक्रियौ ।

आदित्याश्च वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त ।

त आदित्याः पूर्वे स्वर्गं लोकमगच्छन् ।

तेऽङ्गिरसोऽकामयन्त वयमपि तं लोकं गच्छेम यमादित्या अग्मन्निति ।

त एतं यज्ञमपश्यन् ।

तमेव सन्तं परोक्षेणैव तमाहरन् ।

तेनायजन्त ।

ते वळवामेव श्वेतां दक्षिणां नीत्वादित्यैस्सलोका अभवन् ।

ते हैत आदित्याश्चाङ्गिरसश्च सलोकाः ।

सलोको ह वा आदित्यैश्चाङ्गिरोभिश्च भवति य एवं वेद ।

अथो आहुर्यस्मादेव श्रेयान्भ्रातृव्य स्यात्सोऽनेन यजेतेति ।

पूर्वप्रेत इव ह वा एष य श्रेयान् ।

पूर्वप्रेतानिव वा एतेन ते तानाप्नुवन् ।

आप्त्वा श्रेयांसं वसीयानात्मना भवति १२०