११९

स त्रिवृद्र थन्तरसामा भवति ब्रह्म वै त्रिवृत् ।

ब्रह्म रथन्तरं ब्रह्मणा स्वर्गं लोकं गच्छामेति ।

अथो आहुस्त्रिवृदेव बृहत्साम स्यादिति ।

ब्रह्म वै त्रिवृत्क्षत्रं बृहत् ।

ब्रह्मणा च क्षत्रेण च संयुग्भ्यां स्वर्गं लोकं गच्छामेति ।

तदु वा आहुस्त्रिवृदेव रथन्तसामा स्यात् ।

ब्रह्म वै त्रिवृत् ।

ब्रह्म वै रथन्तरम् ।

ब्रह्म वै स्वर्गस्य लोकस्येशे ।

तस्मिंस्त्रिवृदेव रथन्तरसामा स्यादिति ।

तस्मिन्नाहुरियवन्ति सामानि कार्याण्यियवद्भिर्वै देवा स्वर्गं लोकमगच्छन्नियवद्भि स्वर्गं लोकं गच्छामेति ।

अथो आहुर्यान्येवाग्नियोनीनि सामानि तानि कार्याणि ।

अशृत इव वा एष यत्सद्यःक्रीः ।

अग्निर्वा अशृतस्य श्रपयितेति ।

तदु वा आहुरग्निष्टोमसामान्येव कार्याणीति ।

एतानि वा अग्नियोनीनि यदग्निष्टोमसामानि ।

तस्मादग्निष्टोमसामान्येव कार्याणीति ।

अथैष क्षिप्रात्क्षेपीयान्क्षिप्रात्क्षेपीय स्वर्गं लोकं गच्छामेति ।

तस्य द्वादश स्तोत्राणि भवन्ति द्वादश मासास्संवत्सरस्संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।

तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ११९