११७

आदित्या रुद्रा वसवस्त्वेळत इदं राधः प्रतिगृह्णीह्यङ्गिर

इदं राधो बृहत्पृथु देवा ददतु वो वरम्

तद्वो अस्तु सुचेतनं

युष्मे अस्तु दिवे दिवे प्रत्येव गृभायत

इत्येवैनान्प्रत्यग्राहयन् ।

ततो वा आदित्याः पूर्वे स्वर्गं लोकमागच्छनहीयन्ताङ्गिरसः ।

स यो भ्रातृव्यवान्स्याद्योऽभिचरेद्य स्पर्धेत स एतेन यजेत ।

हीयतेऽस्य पाप्मा भ्रातृव्यो गच्छति स्वर्गं लोकम् ।

यवोर्वरा वेदिर्भवति ।

सा हि पुराकृता भवति ।

यवानामुत्तरवेदिः ।

यवैर्वा आदित्या अङ्गिरसां यज्ञमयुवत ।

यद्यज्ञं यवैरयुवत तद्यवानां यवत्वम् ।

यवैरेव द्विषतो भ्रातृव्यस्य यज्ञं युते ।

खलेवला यूप स्फ्याग्रो भवत्यैन्द्रः ।

विजित्यै सह पशू आलभन्ते समष्ट्यै ।

पुमान्गौस्सोमक्रयणो भवति वीर्यं वै पुमान्वीर्यवन्तोऽसामेति ।

साण्डो भवति सेन्द्र त्वाय ।

कुम्भ्या वसतीवर्य्यो भवन्ति यः पुरेजानस्तस्य गृहेभ्यः ।

ता हि पुरागृहीता भवन्ति ।

सर्पिष्मन्तमशित्वा निपद्यते ।

यमेवामुं दीक्षणीयमश्नाति स एवास्य सोऽशितो भवति ।

प्रियायै जायाया अन्तरोरू शेतेऽनिपद्यमानः ।

तपस्यमेवास्य तद्धिरण्यं मुख आधाय शेते ।

सत्यं वै हिरण्यम् ।

सत्यमेवास्य तदुदितं भवति ११७