११४

अथैष विवधः ।

पशुकामो हैतेन यजेत ।

स वा एष षट्च पङ्क्तीरभिसम्पद्यते दश च स्तोत्र्याः ।

ततो याष्षट्पङ्क्तयः पशवस्ते ।

अथ या दश स्तोत्र्याः पशूनामेव स दोहः ।

पय एवैषां तत् ।

ते उ एव द्वे पञ्च पञ्च पञ्चिन्यौ पङ्क्त्यौ सम्पद्येते ।

त उ ते पशव एव ।

तस्य सविंशं प्रातस्सवनं भवति सदशं माध्यन्दिनं सवनं सविंशं तृतीयसवनम् ।

तद्यथा ह वै विवधस्योभयतस्सगुरु सविवधतायै तादृक्तद्यत्सदशं माध्यन्दिनं सवनं भवति ।

सविंशे अभितः पूर्वार्धं च जघनार्धं च भूयिष्ठं भाजयन्ति ।

तस्मात्पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भाजयन्ति ।

वहन्ति पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति ।

उभयं धेनुपयसं चानडुत्पयसं चावरुन्धे य एवं वेद ।

तस्मिन्नु ह तर्ह्युभे बृहद्र थन्तरे कुर्युर्द्वया उ ह वै पशवो राथन्तरा अन्ये बार्हता अन्ये ।

ये ह वा अन्यतोदन्ताः पशवस्ते राथन्तरा य उभयतोदन्तास्ते बार्हता उभयेषामेव पशूनामवरुद्ध्यै ।

स उक्थ्यो भवति पशवो वा उक्थानि पशूनामेवावरुद्ध्यै ।

तस्योद्वंशीयमच्छावाकसाम भवति सर्वपृष्ठरूपं पृष्ठानि वै पशवोऽभिपूर्वाणामेव पशूनामवरुद्ध्यै ११४