११३

अथैष गोसवः ।

स्वर्गकामो हैतेन यजेत ।

स वा एष षट्त्रिंशो भवति ।

षट्त्रिंशदक्षरा वै बृहती ।

बृहती स्वर्गो लोकः साम्राज्यं ।

बृहत्यामेव तत्स्वर्गे लोके साम्राज्ये प्रतितिष्ठन्तो यन्ति ।

बृहत्यु ह वा इमान्सर्वाल्ँ लोकानक्षरैर्व्याप्नोति दशभिरेवाक्षरैरिमं लोकं व्याप्नोति दशभिरन्तरिक्षं दशभिरमुं चतुर्भिर्दिशो द्वाभ्यामहोरात्रे ।

सा येमांल्लोकान्व्याप्नोति तयेमांल्लोकान्व्याप्नवानीति ।

तस्य स्तोत्रं स्तोत्रं चतुरश्चतुरस्त्रिवृतोऽभिसम्पद्यते ।

त्रिवृतं वा अन्ये स्तोमा अभिसम्पद्यन्ते त्रिवृत्स्वर्गं लोकम् ।

स यथा क्षिप्राश्वेन चतुर्युजा यत्र जिगमिषेत्तद्गच्छेदेवमेवैतेन स्वर्गं लोकं गच्छति ।

तस्योभे बृहद्र थन्तरे सामनी भवत स्वर्ग्ये स्वर्गस्य लोकस्य समष्ट्यै ।

स उक्थ्यो भवति प्रजा वै पशव उक्थानि ।

प्रजा वै पशव स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।

तस्य द्वादश सहस्राणि दक्षिणा भवन्ति द्वादश मासास्संवत्सरस्संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।

तस्य व्रतम् ।

उप मातरमियादुप स्वसारमुप सगोत्राम् ।

उपाह्वर्योदकमाचामेदुपाह्वर्य तृणान्याछिन्द्यात् ।

यत्र यत्रैनं विष्ठा विन्देत्तत्तद्वितिष्ठेत ।

अनडुहो ह लोकं जयति ।

तेन हैतेन जनको वैदेहो इयक्षां चक्रे ।

तमु ह ब्राह्मणा अभितो निषेदुः ।

स ह पप्रच्छ क स्तोम इति ।

स होवाच सुदक्षिणः क्षैमिर्नायं त्रिवृदेवाहुरिति ।

तस्य किं व्रतं का दक्षिणा इति ।

तस्मा उ हैतत्प्रोवाच ।

स होवाच उदेवास्य दक्षिणा आशंसे व्रतं त्वेवास्य नोदाशंस इति ।

तेनो ह स नोपदधर्ष यष्टुम् ।

तेनो ह पुण्यकेशो यौधेनिरीजे शैब्यो राजा ।

तं ह सभायामेव विष्ठा विवेद ।

स ह तदेवोदावृणान उवाच स्थविरयज्ञो वाव किलायमास ।

स्थविर एवानेन यज्ञेन यजेत ।

स्थविरस्य ह्येवेदं सर्वमनुज्ञातमिति ।

स हैष स्थविरयज्ञ एव ।

तेन हैतेनोत्तरवयस्ये व यजेत ११३