अभि त्वा वृषभा सुत इत्यार्षभम् ।
अभीति रथन्तरस्य रूपम् ।
तेन रथन्तरस्य रूपान्न यन्ति ।
यदद्य कच्च वृत्रहन्निति शाकलं हिङ्कारवद्वामदेव्यस्य रूपम् ।
तेन वामदेव्यस्य रूपान्न यन्ति ।
तमिन्द्रं वाजयामसीत्येदावसुनिधनं बहिर्निधनं बृहतो रूपम् ।
तेन बृहतो रूपान्न यन्त्यथो पशवो वै वसु पशूनामेवावरुद्ध्यै ।
अथो हैनांस्तदिदं वस्वित्येवाप्त्वोपेयायेदं विष्णुर्विचक्रम इतीळानां सङ्क्षारः पशवो वा इळानां सङ्क्षारः पशूनामेवावरुद्ध्यै ।
एतद्ध वा एनांस्तन्निजुह्व एहीळा एहीळा इति पशवो वा इळा तस्मादेतान्यतिरिक्तोक्थानि कार्याणीति ।
तदु होवाच ताण्ड्यः प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा अपाक्रामन् ।
सोऽग्निमब्रवीदेतान्मे वारयस्वेति ।
तान्स जराबोधीयेन नावारयत ।
स इन्द्र मब्रवीदेतान्मे वारयस्येति ।
तान्स सत्रासाहीयेन नावारयत ।
स ईशानं देवमब्रवीदेतान्मे वारयस्वेति ।
तान्स मार्गीयवेण नैवावारयत ।
स विष्णुमब्रवीदेतान्मे वारयस्वेति ।
तान्स वैष्णवीषु वारवन्तीयेनैवावारयत ।
यदवारयत तद्वारवन्तीयस्य वारवन्तीयत्वम् ।
तस्मादेतान्यतिरिक्तोक्थानि कार्याण्येवेति ११२