ता द्वाषष्टि स्तोत्रियास्सम्पद्यन्ते ।
ततो याष्षष्टिस्सा विराट् ।
पशवो विराट् ।
अथ ये द्वे यजमान एवैष द्विपात्परस्तात्पर्यूढः ।
पशूनां गुप्त्यै पशूनामपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद ।
अथो आहुरेकमेवैतत्स्तोत्रं सत्तच्चतुर्धा विहृत्य स्तुयुष्षड्भिरेव होत्रे स्तुयुष्षड्भिर्मैत्रावरुणाय षड्भिर्ब्राह्मणाच्छंसिने षड्भिरच्छावाकाय ।
तदु होतैवानुशंसेदिति ।
ताश्चतुर्विंशति स्तोत्र्यास्सम्पद्यन्ते ।
चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरः प्रजापतिः ।
प्रजापतिरेवैष परस्तात्पर्यूढः ।
पशूनां गुप्त्यै पशूनामपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद ।
तदु वा आहुस्त्रिवृत्पञ्चदशं सप्तदशमेकविंशमित्येवैतानि स्तोत्राणि स्युः ।
एकविंशं वा अनु सर्वे यज्ञक्रतवस्सन्तिष्ठन्ते ।
अथो एष वाव दृढः प्रतिष्ठित स्तोमो यदेकविंशः ।
तस्मादेकविंश एव स्तोमोऽन्ततः कार्य इति ।
तदाहुः पृष्ठरूपैरेवान्वियुरिति १११