अथो आहुरन्विष्टीनां हेद्वा एष एको यज्ञक्रतुरिति ।
स यस्संवत्सरभृता वासंवत्सरभृता वाग्निना चित्येन यजेत स एतेन यजेत ।
सद्यो हैवास्य संवत्सर ऋतुशोऽर्धमासशो मासशो रात्रिशोऽन्विष्टो भवति ।
तद्यत्पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्यृतवो वै पृष्ठानि संवत्सर ऋतवस्तेनर्तुशः ।
अथ यत्पञ्चदश स्तोत्राणि भवन्ति पञ्चदश वार्धमासस्य रात्रयस्तेनार्धमासशः ।
अथ यत्त्रिंशत्स्तुतशस्त्राणि भवन्ति त्रिंशन्मासस्य रात्रयस्तेन मासशः ।
अथ यत्त्रीणि षष्टिशतानि स्तोत्रिया भवन्ति तावतीः संवत्सरस्य रात्रयस्तेन रात्रिशः ।
सद्यो हैवास्य संवत्सरोऽन्विष्टो भवति य एवं वेद ।
ताः प्रजन्याकामयत स्वर्गं लोकं गच्छेयमिति ।
स एतमुत्तरं मनुस्तोममपश्यत् ।
तमाहरत् ।
तेनायजत ।
तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्यृतवो वै पृष्ठानि ।
संवत्सर ऋतवः ।
संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्योर्ध्वा स्तोमा भवन्त्यूर्ध्वो वै स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्योभे बृहद्र थन्तरे सामनी भवत स्वर्ग्ये स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्य छन्दोमाः पवमाना भवन्ति पशवो वै छन्दोमाः ।
पशव स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।
तस्य पञ्चविंशं ब्रह्मसाम भवति ।
अन्नं वै पञ्चविंशम् ।
यजमानकामो वा एष यद्ब्रह्मसाम ।
स्व एव तदायतने यजमानमन्नाद्येन समर्धयन्ति ।
स उक्थ्यो भवति प्रजा वै पशव उक्थानि ।
प्रजा वै पशव स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै १०९