अथैष मनुस्तोमः ।
मनुर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेय मानवीः प्रजास्सृजेयेति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै स बहुः प्रजया पशुभिः प्राजायत ।
ता इमा मानवीः प्रजा असृजत ।
स यः कामयेत बहुः प्रजया पशुभिः प्रजायेय मानवीः प्रजाः सृजेयेति स एतेन यजेत ।
बहुरेव प्रजया पशुभिः प्रजायते मानवीः प्रजास्सृजते ।
तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्ति ।
ऋतवो वै पृष्ठानि ।
संवत्सर ऋतवः ।
संवत्सरः प्रजननम् ।
स यः प्रजननं स मा प्रजनयादिति ।
तस्योभये स्तोमा भवन्त्ययुजश्च युग्मन्तश्चैव ।
तद्वै दैव्यं मिथुनं प्रजननं यदुभये स्तोमाः ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्य व्यतिषक्ता स्तोमा भवन्ति व्यतिषक्ताद्वै मिथुनात्प्रजाः पशवः प्रजायन्ते प्रजात्या एव ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
एतद्वै दैव्यं मिथुनं प्रजननं यदुभे बृहद्र थन्तरे ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्य छन्दोमाः पवमाना भवन्ति ।
पशवो वै छन्दोमाः ।
पशवः प्रजननम् ।
तद्यत्प्रजननं तन्मा प्रजनयादिति ।
तस्य मानवं ब्रह्मसाम भवति ।
ब्रह्म वै ब्रह्मसाम ।
यजमानकामो एष यद्ब्रह्मसाम स्व एव तदायतने यजमानं कामैस्समर्धयन्ति ।
स उक्थ्यो भवति ।
प्रजा वै पशव उक्थानि ।
प्रजा वै पशवः प्रजननम् ।
तद्यत्प्रजननं तन्मा प्रजनयादिति १०८