तयोर्वा एतयोस्सह त्रिवृतौ सह पञ्चदशौ सह सप्तदशौ सहैकविंशौ सह त्रिञवौ सह त्रयस्त्रिंशौ ।
स यथा द्वाभ्यां द्वाभ्यां प्रतितिष्ठन्नियादेवमेवैताभ्यां स्वर्गे लोके प्रतितिष्ठति ।
अथो आहुरन्विष्टीनां हेद्वा एतौ यज्ञक्रतू इति ।
स यस्संवत्सरभृता वासंवत्सरभृता वाग्निना चित्येन यजेत स एताभ्यां यजेत ।
सद्यो हैवास्य संवत्सर ऋतुशो मासशोऽर्धमासशोऽन्विष्टो भवति ।
तद्यत्पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्यृतवो वै पृष्ठानि ।
संवत्सर ऋतवस्तेनर्तुशः ।
अथ यद्द्वादश स्तोत्राणि भवन्ति द्वादश मासास्संवत्सरस्तेन मासशः ।
अथ यच्चतुर्विंशति स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासस्संवत्सरस्तेनार्धमासशः ।
सद्यो हैवास्य संवत्सरोऽन्विष्टो भवति य एवं वेद १०७