१०६

तस्य वा एतस्याभिभुवस्त्रिवृतावभितो भवतस्त्रयस्त्रिंशौ मध्ये ।

तयोष्षट्षष्टि स्तोत्र्याः ।

ततो याष्षष्टिरासन्दी सा ।

अथ याश्चतस्र आसन्दीपादास्ते ।

अथ ये द्वे यजमान एवैष द्विपादेतस्यां राजासन्द्यामध्यूढः ।

गच्छति राज्यं य एवं वेद ।

यद्यस्मिल्ँ लोके नाथ वा अमुष्मिन् ।

अथो आहुर्यस्य द्वावेतौ त्रिवृतौ मध्ये मध्ये सा हेद्वा अप्यासन्दीति ।

मध्ये विनतेव वा आसन्दी ।

मध्ये विनत इवैष ।

सा ह वै सुषिमत्तरा या मध्ये विनता ।

गच्छति राज्यं य एवं वेद यद्यस्मिल्ँ लोके नाथ वा अमुष्मिन् ।

अथो आहुः पुनरसौ हेद्वा एतौ यज्ञक्रतू इति ।

षड्वा एतयोरिति ऊर्ध्वा स्तोमा उद्यन्ति ।

षडमुतोऽर्वाञ्चष्षड्भिरेवेते ऊर्ध्वं स्वर्गं लोकं गच्छति प्रत्येवामुतष्षड्भिरवरोहति गच्छति स्वर्गं लोकं प्रत्यस्मिल्ँ लोके तिष्ठति ।

अथो ह वेद योऽसावासं सोऽयमस्मीति पुनर्हैवास्मिल्ँ लोक आजायते ।

अथो आहु स्वर्गकाम इद्य आभ्यामपियजेतेति १०६