१०५

अथो आहुरग्निरेवैष यत्त्रिवृत्स्तोमः ।

तद्यथा भ्रमलान्सम्पन्नानग्निनाभ्यौषेदेवमेवैनांस्तत्त्रिवृता अग्निना स्तोमेन त्रयस्त्रिंशाभ्यामुभयत उपमार्याभ्यौषन् ।

ते विपलय्येमामुपासर्पन्निति ।

ततो वै देवा अभवन्परासुराः ।

भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद ।

अथो आहुः पुरोधाकाम एवैनेन यजेत यदभिभूरिति ।

तस्य त्रिवृतावभितो भवतस्त्रयस्त्रिंशौ मध्ये ।

ब्रह्म वै त्रिवृत्क्षत्रं त्रयस्त्रिंशः ।

ब्रह्मणैव तदुभयतः क्षत्रं परिगृह्णाति ।

यदो वै ब्रह्मणा क्षत्रं परिगृह्णात्यथ स तस्य पुरोधां गच्छति ।

गच्छति पुरोधां पुर एनं दधते ।

अथो आहुरन्तस्थाकाम एवैनेन यजेत यद्विनुत्तिरिति ।

तस्य त्रिवृत्तौ मध्ये भवतस्त्रयस्त्रिंशावभितः ।

ब्रह्म वै त्रिवृत्क्षत्रं त्रयस्त्रिंशः ।

क्षत्रेणैव तदुभयतो ब्रह्म परिगृह्णाति ।

यदो वै क्षत्रेण ब्रह्म परिगृह्णात्यथ स तस्यान्तस्थां तिष्ठति ।

तिष्ठत्यन्तस्थां नान्तस्थायां जीयते ।

अथो आहू राजानौ हेद्वा एतौ स्तोमौ स्तोमराजाविति १०५