१०४

अथैतावभिभूश्च विनुत्तिश्च ।

देवासुरा अस्पर्धन्त ।

ते देवा अकामयन्ताभीमानसुरान्भवेमेति ।

त एततभिभुवं यज्ञमपश्यन् ।

तमाहरन् ।

तेनायजन्त ।

तेनासुरानभ्यभवन् ।

यदभ्यभवंस्तदभिभुवोऽभिभूत्वम् ।

अभि ह वै द्विषन्तं भ्रातृव्यं भवति य एवं वेद ।

तस्य त्रिवृतावभितो भवतः ।

ब्रह्म वै त्रिवृत् ।

ब्रह्मणा वा एनांस्तदभ्यभवन् ।

ब्रह्मणैव द्विषन्तं भ्रातृव्यमभिभवति य एवं वेद ।

ते जितास्त्रस्त्रिंशमेव पितरं प्रजापतिं प्रापद्यन्त ।

यथा ज्येष्ठायां वरिष्ठायां पुरि परियतेरंस्तथा तानकामयन्तात एनान्विनुदेमहीति ।

त एतं विनुत्तिं यज्ञमपश्यन् ।

तमाहरन् ।

तेनायजन्त ।

तत एनान्व्यनुदन्त ।

यद्व्यनुदन्त तद्विनुत्तेर्विनुत्तित्वम् ।

वि ह वै द्विषन्तं भ्रातृव्यं नुदते य एवं वेद ।

तस्य त्रिवृतौ मध्ये भवतः ।

ब्रह्म वै त्रिवृत् ।

ब्रह्मणा वा एनांस्तद्व्यनुदन्त ।

ब्रह्मणैव द्विषन्तं भ्रातृव्यं विनुदते य एवं वेद १०४