१०३

तदाहुः कैतस्य यज्ञस्य विधृतिः कापचितिरिति ।

स ब्रूयाद्यदेव सवनात्सवनं न समैति ।

यद समैव सवनं सम्पद्यते सैवैतस्य यज्ञस्य विधृतिस्सापचितिरिति ।

तस्य आहुर्दविद्युतत्या रुचेत्येव प्रतिपदं कार्याम् ।

एषा वै गणिनी प्रतिपद्बहुरूपा ।

गणा इव वै तं सचन्ते य श्रियमश्नुत इति ।

तदु वा आहुः पवस्व वाचो अग्रिय उपास्मै गायता नर इत्येते एव प्रतिपदौ कार्ये ।

एते वाव गणिन्यौ प्रतिपदौ बहुरूपे ।

अथो उभे ह्यत्र सामनी क्रियेते ।

तस्मादेते एव प्रतिपदौ कार्ये इति ।

बृहद्र थन्तरे भवतः ।

ब्रह्म वै रथन्तरं क्षत्रं बृहत् ।

ब्रह्म च वै क्षत्रं चापचिते रूपम् ।

भद्र श्रेयसी भवतः ।

भद्रे ण वै देवा भद्रा अभवञ्छ्रेयसा श्रियमगच्छन् ।

सहोमहसी भवतः ।

सहसा वै देवा असुरानसहन्त ।

महसा महोऽभवन् ।

भर्गयशसी भवतः ।

भर्गेण वै देवा भर्गोऽभवन् ।

यशसा यशोऽगच्छन् ।

उत्सेधनिषेधौ भवतः ।

उत्सेधेन वै देवा औत्सेध्यमुदसेधन् ।

निषेधेन निषेध्यं न्यषेधन् ।

सदोविशीयं च विशोविशीयं च भवतः ।

सदोविशीयेन वै देवा विशमसीदन् ।

विशोविशीयेन विशो विशो राजानोऽभवन् ।

धर्मविधर्मणी भवतः ।

धर्मेण वै देवा धर्मोऽभवन् ।

विधर्मणा विधर्मापाघ्नत ।

तस्मिनेता उभयीर्द्विपदातिच्छन्दसः क्रियन्ते ज्येष्ठानि च ह्रसिष्ठानि च छन्दांसि ।

पशवो वै छन्दांसि ।

तस्माद्भूतमुभये पशव उपतिष्ठन्ते ज्येष्ठाश्च ह्रसिष्ठाश्च ।

उभये ह वा एनं पशव उपतिष्ठन्ते ज्येष्ठाश्च ह्रसिष्ठाश्च य एवं वेद ।

तस्याश्वरथश्चतुर्युग्दक्षिणा भवति ।

सर्वे शतक्रियोऽश्वाः ।

स रुक्मी प्रावेपी सर्वाभरण्यंशुमान्भवति ।

तस्य वैयाघ्रः परिवारो भवति द्वैपो धन्वधिरार्क्ष उपासङ्गः ।

खाड्गकवचोऽध्यास्थाता भवति सन्नद्धस्सन्नद्धसारथिरावृतः प्रतिहिताभ्याम् ।

निष्की स्रग्वी सङ्ग्रहीता भवति ।

एतद्वै त्विषे रूपमेतदपचितेः ।

तस्मिन्नेतदपचितं धनं ददाति ।

अपचिता एवापचितं धनं ददानीति ।

स्तोममेव तद्रू पेण समर्धयन्ति १०३