१०२

गायत्रो वै ब्राह्मणः ।

त्रैष्टुभो राजन्यः ।

जागतो वैश्यः ।

आनुष्टुभः शूद्रः ।

तद्यद्गायत्रीं प्रातस्सवनं सम्पद्यते गायत्र्यैव तच्छन्दसा दर्भः शातानीकिर्ब्राह्मणे मनुष्येऽध्यपचितिमगच्छत् ।

अथ यत्त्रिष्टुभं माध्यन्दिनं सवनं सम्पद्यते त्रिष्टुभैव तच्छन्दसा दर्भः शातानीकी राजन्ये मनुष्येऽध्यपचितिमगच्छत् ।

अथ यज्जगतीं तृतीयसवनं सम्पद्यते जगत्यैव तच्छन्दसा दर्भः शातानीकिर्वैश्ये मनुष्येऽध्यपचितिमगच्छत् ।

अष्टाक्षरा गायत्री ।

एकादशाक्षरा त्रिष्टुप् ।

द्वादशाक्षरा जगती ।

वागिति यज्ञायज्ञीयस्य निधनम् ।

तद्द्वात्रिंशत् ।

द्वात्रिंशदक्षरानुष्टुप् ।

आनुष्टुभः शूद्रः ।

अनुष्टुभैव तच्छन्दसा दर्भः शातानीकिः शूद्रे मनुष्येऽध्यपचितिमगच्छत् ।

एतावन्तो वै मनुष्याः ।

एतावन्ति मनुष्यजातानि ।

तेष्वेव तदध्यपचितिमगच्छत् १०२