अस्य वा एतस्य गायत्रीमेव प्रातस्सवनं सम्पद्यते त्रिष्टुभं माध्यन्दिनं सवनं जगतीं तृतीयसवनम् ।
तद्यद्गायत्रीं प्रातस्सवनं सम्पद्यतेऽष्टाक्षरा गायत्र्यष्टौ वसवो गायत्र्यैव तच्छन्दसा प्रजापतिश्चेन्द्र श्च वसुषु देवेषु प्रातस्सवनेऽध्यपिचितिमगच्छताम् ।
अथ यत्त्रिष्टुभं माध्यन्दिनं सवनं सम्पद्यत एकादशाक्षरा त्रिष्टुबेकादश रुद्रा स्त्रिष्टुभैव तच्छन्दसा प्रजापतिश्चेन्द्र श्च रुद्रे षु देवेषु माध्यन्दिने सवनेऽध्यपचितिमगच्छताम् ।
अथ यज्जगतीं तृतीयसवनं सम्पद्यते द्वादशाक्षरा जगती द्वादशादित्या जगत्यैव तच्छन्दसा प्रजापतिश्चेन्द्र श्चादित्येषु देवेषु तृतीयसवनेऽध्यपचितिमगच्छताम् ।
अष्टाक्षरा गायत्री ।
एकादशाक्षरा त्रिष्टुप् ।
द्वादशाक्षरा जगती ।
वागिति यज्ञायज्ञीयस्य निधनम् ।
तद्द्वात्रिंशत् ।
द्वात्रिंशदक्षरानुष्टुप् ।
विश्वेषां देवानामनुष्टुप् ।
अनुष्टुभैव तच्छन्दसा प्रजापतिश्चेन्द्र श्च विश्वेषु देवेषु तृतीयसवनेऽध्यपचितिमगच्छताम् ।
एतावन्तो वै देवाः ।
एतावन्ति देवजातानि ।
तेष्वेव तदध्यपचितिमगच्छताम् १०१